जैन स्तोत्र – सुप्रभात स्तोत्रम् || Suprabhat Stotram

शार्दूलविक्रीडितम्

यत्स्वर्गावतरोत्सवे यदभवज्जन्माभिषेकोत्सवे,
यद्दीक्षाग्रहणोत्सवे यदखिलज्ञानप्रकाशोत्सवे ।
यन्निर्वाणगमोत्सवे जिनपतेः, पूजाद्भुतं तद्भवैः,
सङ्गीतस्तुतिमङ्गलैः प्रसरतां, मे सुप्रभातोत्सवः ॥१॥

वसन्ततिलकाछन्दः

श्रीमन्- नतामर – किरीट-मणिप्रभाभि-
रालीढपाद-युग ! दुर्द्धर-कर्मदूर ।
श्रीनाभिनन्दन ! जिनाजित! शम्भवाख्य !
त्वद्ध्यानतोऽस्तु सततं मम सुप्रभातम् ॥२॥
छत्रत्रय-प्रचल-चामर- वीज्यमान !
देवाभिनन्दनमुने ! सुमते ! जिनेन्द्र !
पद्मप्रभारुणमणि-द्युति-भासुराङ्ग !
त्वद्ध्यानतोऽस्तु सततं मम सुप्रभातम् ॥३॥
अर्हन्! सुपार्श्व! कदली-दलवर्ण-गात्र,
प्रालेय-तारगिरि-मौक्तिक-वर्णगौर !
चन्द्रप्रभ ! स्फटिक-पाण्डुर-पुष्पदन्त !
त्वद्ध्यानतोऽस्तु सततं मम सुप्रभातम् ॥४॥
ब्र. जयकुमार निशांत ब्र. जिनेश मलैया
संतप्त काञ्चनरुचे! जिनशीतलाख्य !
श्रेयन् ! विनष्ट-दुरिताष्ट-कलङ्क-पङ्क !
बन्धूक-बन्धुररुचे! जिनवासुपूज्य !
त्वद्ध्यानतोऽस्तु सततं मम सुप्रभातम् ||५||
उद्दण्ड-दर्पक-रिपो ! विमलामलाङ्ग !,
स्थेमन्ननन्तजिदनन्त-सुखाम्बुराशे !
दुष्कर्म – कल्मष – विवर्जित-धर्मनाथ !
त्वद्ध्यानतोऽस्तु सततं मम सुप्रभातम् ||६||
देवामरी – कुसुम-सन्निभ-शान्तिनाथ !
कुन्थो ! दयागुण-विभूषण-भूषिताङ्ग !
देवाधिदेव ! भगवन्नर-तीर्थनाथ !
त्वद्ध्यानतोऽस्तु सततं मम सुप्रभातम् ॥७॥
यन्मोह-मल्ल-मद-भञ्जन- मल्लिनाथ !
क्षेमङ्करावितथ-शासन – सुव्रताख्य !
सत्-सम्पदा प्रशमितो नमिनामधेय !
त्वद्ध्यानतोऽस्तु सततं मम सुप्रभातम् ॥८॥
तापिच्छगुच्छ-रुचिरोज्ज्वल-नेमिनाथ !
घोरोपसर्गविजयिन् ! जिनपार्श्वनाथ !
स्याद्वाद – सूक्ति-मणि-दर्पण वर्द्धमान !
त्वद्ध्यानतोऽस्तु सततं मम सुप्रभातम् ॥९॥
प्रालेय-नील हरितारुण- पीत-भासं,
यन्मूर्तिमव्यय – सुखावसथं मुनीन्द्राः
ध्यायन्ति सप्तति-शतं जिनवल्लभानां,
त्वद्ध्यानतोऽस्तु सततं मम सुप्रभातम् ॥१०॥

अनुष्टच्छन्दः

सुप्रभातं सुनक्षत्रं, माङ्गल्यं परिकीर्तितम् ।
चतुर्विंशतितीर्थानां, सुप्रभातं दिने दिने ||११||
सुप्रभातं सुनक्षत्रं, श्रेयः प्रत्यभिनन्दितम् ।
देवता ऋषयः सिद्धाः, सुप्रभातं दिने दिने ॥१२॥
सुप्रभातं तवैकस्य, वृषभस्य महात्मनः ।
येन प्रवर्तितं तीर्थं, भव्यसत्त्वसुखावहम् ॥१३॥
सुप्रभातं जिनेन्द्राणां, ज्ञानोन्मीलितचक्षुषाम् ।
अज्ञानतिमिरान्धानां नित्यमस्तमितो रविः ॥१४॥
सुप्रभातं जिनेन्द्रस्य, वीरः कमललोचनः ।
येन कर्माटवी दग्धा, शुक्लध्यानोग्रवह्निना ॥१५॥
सुप्रभातं सुनक्षत्रं, सुकल्याणं सुमङ्गलम् ।
त्रैलोक्यहितकर्त्तृणां, जिनानामेव शासनम् ॥१६॥

*****