परमर्षि स्वस्ति मंगल पाठ | Paramarshi Swasti Mangal Path
परमर्षि स्वस्ति मंगल पाठ
(प्रत्येक श्लोक के बाद पुष्प क्षेपण करें )
(उपजातिच्छन्दः)
नित्याप्रकम्पाद्भुतकेवलौघाः, स्फुरन्मनःपर्ययशुद्धबोधाः
दिव्यावधि-ज्ञानबलप्रबोधाः, स्वस्ति क्रियासुः परमर्षयो नः॥१॥
कोष्ठस्थ-धान्योपम-मेकबीजं, संभिध-संश्रोतृपदानुसारि ।
चतुर्विधं बुद्धिबलं दधानाः, स्वस्ति क्रियासुः परमर्षयो नः ||२||
संस्पर्शनं संश्रवणं च दूरादास्वादन घ्राण-विलोकनानि ।
दिव्यान्मतिज्ञानबलाब्रहन्तः, स्वस्ति क्रियासुः परमर्षयो नः ||३||
प्रज्ञाप्रधानाः श्रमणाः समृद्धाः, प्रत्येक-बुद्धाः दशसर्वपूर्व: ।
प्रवादिनोऽष्टाङ्गनिमित्तविज्ञाः, स्वस्ति क्रियासुः परमर्षयो नः ||४||
जङ्घानलश्रेणि- फलाम्बु-तन्तु प्रसून बीजाङ्कुर – चारणाह्वाः ।
नभोऽङ्गणस्वैरविहारिणश्च, स्वस्ति क्रियासुः परमर्षयो नः ||५||
अणिनि दक्षाः कुशला महिम्नि, लघिम्नि शक्ताः कृतिनो गरिणि ।
मनो-वपु-र्वाग्बलिनश्च नित्यं, स्वस्ति क्रियासुः परमर्षयो नः ||६||
सकामरूपित्ववशित्वमैश्यं, प्राकाम्यमन्तर्द्धिमथाप्तिमाप्ताः ।
तथाऽप्रतीघातगुणप्रधानाः, स्वस्ति क्रियासुः परमर्षयो नः ||७||
दीप्तं च तप्तं च महत्तथोग्रं, घोरं तपो घोर-पराक्रमस्थाः ।
ब्रह्मापरं घोरगुणं चरन्तः, स्वस्ति क्रियासुः परमर्षयो नः ||८||
आमर्ष- सर्वोषधयस्तथाशीर्विषाविषा दृष्टिविषाविषाश्च ।
सखेल-विड्जल्लमलौषधीशाः, स्वस्ति क्रियासुः परमर्षयो नः ||९||
क्षीरं स्रवन्तोऽत्र घृतं स्रवन्तो, मधुस्रवन्तोऽप्यमृतं स्रवन्तः ।
अक्षीणसंवासमहानसाश्च, स्वस्ति क्रियासुः परमर्षयो नः ||१०||
इति परमर्षिस्वस्तिमङ्गलविधानं परिपुष्पाञ्जलिं क्षिपेत्
*****