लघु चैत्यभक्ति (वर्षेषु वर्षान्तरपर्वतेषु)
इन्द्रवज्रा
वर्षेषु वर्षान्तरपर्वतेषु, नन्दीश्वरे यानि च मन्दरेषु ।
यावन्ति चैत्यायतनानि लोके, सर्वाणि वन्दे जिनपुङ्गवानाम् ॥
मालिनी
अवनितल-गतानां कृत्रिमाकृत्रिमाणां,
वन-भवन-गतानां दिव्य-वैमानिकानाम्।
इह मनुज – कृतानां देवराजार्चितानां
जिनवर-निलयानां भावतोऽहं स्मरामि॥
शार्दूलविक्रीडितम्
जम्बूधातकि- पुष्करार्ध-वसुधा क्षेत्रत्रये ये भवा –
श्चन्द्राम्भोजशिखण्डिकण्ठकनक प्रावृड्घनाभा जिनाः।
सम्यग्ज्ञान – चरित्र – लक्षणधरा, ‘दग्धाष्टकर्मेन्धनाः,
भूतानागत-वर्तमानसमये, तेभ्यो जिनेभ्यो नमः॥
स्रग्धरा
श्रीमन्मेरौ कुलाद्रौ, रजतगिरिवरे, शाल्मलौ जम्बुवृक्षे
वक्षारे चैत्यवृक्षे, रतिकर रुचके, कुण्डले मानुषाङ्के।
इष्वाकारेऽञ्जनाद्रौ, दधिमुखशिखरे, व्यन्तरे स्वर्गलोके
ज्योतिर्लोकेऽभिवन्दे, भुवनमहितले, यानि चैत्यालयानि॥
शार्दूलविक्रीडितम्
द्वौ कुन्देन्दु तुषारहार धवलौ, द्वाविन्द्रनील प्रभौ,
द्वौ बन्धूक- सम-प्रभौ जिनवृषौ द्वौ च प्रियङ्गुप्रभौ
शेषाः षोडश-जन्ममृत्युरहिताः संतप्तहेम प्रभा-
स्ते सज्ज्ञानदिवाकराः सुरनुताः सिद्धिं प्रयच्छन्तु नः॥
अंचलिका
इच्छामि भंते! चेइयभत्ति – काउस्सग्गो कओ तस्सालोचेउं अहलोय-तिरियलोय-
उड्डलोयम्मि किट्टिमाकिट्टिमाणि जाणि जिणचेइयाणि ताणि सव्वाणि तिसु वि
लोएसु भवणवासिय-वाणविंतर- जोइसिय- कप्पवासियत्ति चउव्विहा देवा सपरिवारा
दिव्वेण गंधेण दिव्वेण पुप्फेण दिव्वेण धूवेण दिव्वेण चुण्णेण दिव्वेण वासेण दिव्वेण
पहाणेण णिच्चकालं अच्वंति पुज्जंति वंदंति णमस्संति अहमवि इह संतो तत्थ संताई
णिच्चकालं अच्चेमि पुज्जेमि वंदामि णमस्सामि दुक्खक्खओ कम्मक्खओ बोहिलाहो
सुगइगमणं समाहिमरणं जिणगुणसंपत्ति होउ मज्झं ।
अथ पौर्वाह्निक(माध्याह्निक/आपराह्निक) देववन्दनायां पूर्वाचार्यानुक्रमेण
सकलकर्मक्षयार्थं भावपूजावन्दनास्तवसमेतं श्रीपञ्चमहागुरुभक्तिकायोत्सर्गं करोम्यहम् ।
तावकायं पावकम्मं दुच्चरियं वोस्सरामि।
णमो अरिहंताणं, णमो सिद्धाणं णमो आइरियाणं।
णमो उवज्झायाणं, णमो लोए सव्वसाहूणं॥